वांछित मन्त्र चुनें

अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वेभि॑रु॒त मानु॑षेभिः । यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥

अंग्रेज़ी लिप्यंतरण

aham eva svayam idaṁ vadāmi juṣṭaṁ devebhir uta mānuṣebhiḥ | yaṁ kāmaye taṁ-tam ugraṁ kṛṇomi tam brahmāṇaṁ tam ṛṣiṁ taṁ sumedhām ||

पद पाठ

अ॒हम् । ए॒व । स्व॒यम् । इ॒दम् । व॒दा॒मि॒ । जुष्ट॑म् । दे॒वेभिः॑ । उ॒त । मानु॑षेभिः । यम् । का॒मये॑ । तम्ऽत॑म् । उ॒ग्रम् । कृ॒णो॒मि॒ । तम् । ब्र॒ह्माण॑म् । तम् । ऋषि॑म् । तम् । सु॒ऽमे॒धाम् ॥ १०.१२५.५

ऋग्वेद » मण्डल:10» सूक्त:125» मन्त्र:5 | अष्टक:8» अध्याय:7» वर्ग:11» मन्त्र:5 | मण्डल:10» अनुवाक:10» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अहम्-एव स्वयम्) मैं ही स्वयं (इदं वदामि) यह कहती हूँ (देवेभिः) ऋषियों द्वारा (उत) और (मानुषेभिः) मनुष्यों द्वारा (जुष्टम्) सेवन करने योग्य को (यं कामये) जिसको चाहती हूँ, पात्र मानती हूँ, (तं तम्) उस-उस को (उग्रम्) उत्कृष्ट (तं ब्रह्माणम्) उसे ब्रह्मा (तम्-ऋषिम्) उसे ऋषि (तं सुमेधाम्) उसे अच्छी मेधावाला (कृणोमि) करती हूँ, बनाती हूँ ॥५॥
भावार्थभाषाः - पारमेश्वरी ज्ञान शक्ति ही देवों और साधारण मनुष्यों के द्वारा सत्सङ्ग में आये मनुष्य को तेजस्वी बनाती है, ब्रह्मा बनाती है, ऋषि बनाती है, अच्छी मेधावाला बनाती है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अहम्-एव स्वयम्-इदं वदामि) अहं हि खल्वेवेदं स्वयं वदामि (देवेभिः-उत मानुषेभिः-जुष्टम्) ऋषिभिः-अथ च मनुष्यैः सेवितं (यं कामये) यं हि खल्विच्छामि पात्रं मन्ये (तं तम्-उग्रम्) तं तमुच्चं (तं ब्रह्माणम्) तं ब्रह्माणं (तम्-ऋषिम्) तमृषिं (तं सुमेधाम्) तं सुष्ठुमेधावन्तं (कृणोमि) करोमि सम्पादयामि ॥५॥